सम्यग्ज्ञानेन कथं सिद्धिः

सम्यक्ख्यातिः इति साङ्ख्येषु प्रसिद्धा संज्ञा।
सम्यग्ज्ञानम्, सुज्ञानम् इत्यादयः शब्दाः अपि प्रचलिताः।
यत् ज्ञानं न मिथ्याज्ञानं, यच्च वेदगर्भितं, तदेव ज्ञानम् इति उच्यते।


परन्तु—
आत्मज्ञानेन कथं सिद्धिः इति प्रश्नः सदा उदेति।
योगे आसने स्थित्वा कथं ऐश्वर्यं प्राप्यते?
केवलं ध्यानमात्रेण वा पुरुषार्थः सिद्ध्यति?
उदाहरणेन द्रष्टुं शक्यते।
दुराचारिणः दुर्व्यसननिवृत्तिः सहसा असम्भवः।
प्रबलवात इव कामः—
तस्य वेगः दुर्निग्रहः।
शनैः शनैः यथा वाहनं निगृह्यते,
तथा पुनः पुनः स्मरणेन एव मनो निगृह्यते।
यदि पृच्छेत्— किं स्मरणेन?
उच्यते— परमतत्त्वस्य स्मरणेन।
यदि पुनः पृच्छेत्—
परमतत्त्वं किं आलोचनात् बहिः, आहोस्वित् अन्तः?
तर्हि उत्तरं— न हि।
परमतत्त्वस्य विवेकः
केवलं आलोचनया न,
अपि तु सम्यग्ज्ञानेन एव दुष्प्राप्यते।
महाभारते तु युधिष्ठिरः प्रच्छति—
को धर्मः सर्वधर्माणां परमः?
कः एको देवः सर्वदेवेषु?
किं एकं सत्यं परमं सत्यम्?
एवं युधिष्ठिरः विपश्चित्,
विनयेन भीष्मं प्रच्छति।
ज्ञानस्य मूलं संशयनिवृत्तिः।
यदा संशयः सूनिवृत्तः,
तदा आत्मा सुदृढो भवति,
बुद्धिः स्थिरा च भवति।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥
एवं अर्जुनः संशयविनिर्मुक्तः
गीतामृतं अश्नोति।
अत्र स्मरणं नाम न पूर्ववृत्तान्तस्य चिन्तनम्,
किन्तु स्वात्मस्वरूपस्य पुनःप्रत्यवस्थानम्।
अस्य क्रमः—
स्मरणात् आत्मस्मरणम्,
आत्मस्मरणात् स्वरूपज्ञानम्,
स्वरूपज्ञानात् ध्यानम्।
साङ्ख्ये संशयनिवृत्तिः ज्ञानफलम्,
योगे तु अनुभवरूपं ध्यानमेव फलम्।
अतः न ज्ञानं ध्यानस्य विरोधी,
न च ध्यानं ज्ञानस्य विकल्पः।
साङ्ख्ये संशयनिवृत्तिः आरम्भः,
योगे तु स्वरूपनिष्ठा सिद्धिः।
सूचना
इदं तु ममैव तात्त्विकचिन्तनं,
किञ्चिद् अनुभवयुक्तं च।
प्राणायामः, ध्यानं, समाधिः—
सर्वेऽपि परस्परं निकटाः,
तथापि स्वस्वरूपे भिन्नाः एव।
साङ्ख्य–योगयोः श्रद्धया अध्ययनप्रसादात्
प्राणायामस्य तत्त्वान्तरं गतोऽस्मि।
ध्यान–समाधी तु वर्तमाने अनधिगतौ एव। 

✦   ✦   ✦

Reconstructing Sāṃkhya-Yoga from the Mahabharata

Your help is Solicited


Embedded within the Mahābhārata is the oldest, undefiled Vedic science of Sāṃkhya and Yoga. I seek your support for this project in any way possible. Please consider donating any amount that you deem proper.

Support this project  →

My UPI ID is: 8296375300@ybl

No account needed  ·  Every bit helps

Mod
Mahabharata enthusiast. Samkhya-Yoga.
Share this article:
Cron Job Starts