ध्रुवं जयं साङ्ख्य-योगेन

सहस्रशो वै सञ्चरति मनोरथः । असंख्याः काम-सरिताः गुप्ताः सुप्ताः चापि । मृगयन्त्यः अविश्रान्ताः आलयं चोपवनं ।

पूर्वजाः तु वने रमन्ते । कीदृशोऽयं वैपरीत्य इति विचारणीयः विषयः । सम्भावितस्य का लक्षणं, शिष्टः कः इत्यपि ।

सम्राट् हि एकमेवाद्वितीयः । पराधीनो राष्ट्रः । न स्वाधीनः आत्मा । कथं पुनः सुखं?

स्वधर्मे निधनं श्रेयः इति भगवतोक्तं । मुद्गलः उञ्छवृत्त्या जीवति स्म । स दुर्वासेन महात्मना परीक्षितः, स्वर्गं हि निराकृतवान् । अनित्यमसुखमिमं लोकं कर्मावलम्बितम् इति मत्वा ब्रह्माश्रितः सः ।

या निशा सर्वभूतानां तस्यां जागर्ति संयमी खलु ।
गीतायां पुनरुक्तम्

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥

एवं हि श्रेष्ठाः सर्वदा उपरमन्ते स्म ।

एषा धारणा स्वश्रद्धया स्वभावजं अनुसरति । धर्मार्थकामाः कामाधीनाः वा अर्थाधीनाः कदाचिन्न भवेयुः ।

यथा—

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥

निर्योगक्षेमो ह्यात्मवान् मुद्गल आसीत् । सात्त्विकी श्रद्धा तु संशयपरिहारेण हि उपलभ्यते । संशयात्मा विनश्यति खलु ।

एवं साङ्ख्ययोगयोः विज्ञानेन हि ध्रुवम् जयं । नान्यपन्था विद्यते अयनाय । एवं पुरवासिनोऽपि आरण्ये संश्रितवन्त इत्यहं मन्ये ।

पूर्वं ययातिः राजर्षिः एवं हि सुखदुःखद्वन्द्वात् विनिर्मुक्तः अभवत् । न तु मिथ्याज्ञानमाश्रितः ।

✦   ✦   ✦

Reconstructing Sāṃkhya-Yoga from the Mahabharata

Your help is Solicited


Embedded within the Mahābhārata is the oldest, undefiled Vedic science of Sāṃkhya and Yoga. I seek your support for this project in any way possible. Please consider donating any amount that you deem proper.

Support this project  →

My UPI ID is: 8296375300@ybl

No account needed  ·  Every bit helps

Mod
Mahabharata enthusiast. Samkhya-Yoga.
Share this article:
Cron Job Starts