"भोः मार्जारि, अतिमात्रं स्निह्याम्यहं त्वयि। नित्यं च शङ्के मा तव अनिष्टोपनिपातो भूदिति। ब्राह्मणोऽहम्। त्वं मम मार्जारी। कथं निर्लज्जतया मां सभोजनं करोषि? किमिति लोकनिन्दया न लज्जसे? जनाः मां किं कथयेयुरित्यपि ते चिन्ता नास्ति किम्?" इति तां बिडालामुक्त्वा, अहमुपहासस्य पात्रं भवामीदानिमिति सः विचलितो जातः।
किं करवाणि, किं करवाणीति चिन्तयन् सः, "गङ्गा माता पापनाशिनी" इत्यस्मरत्। अतः प्रायश्चित्ताय गङ्गास्नानमेव उचितमिति स निश्चिनोत्। एवं मार्जारीं गङ्गाजले निमज्जनोन्मज्जनाभ्यां स्नापयितुमभरत दत्तात्रेयः। "म्याउ, म्याउ" इति म्युङ्कारेण मार्जारी बलवद्विरोधं प्रदर्शयत्। तेन दत्तात्रेये तु कोऽपि प्रभावो नाभवत्।
तदानीमेव पर्यटकौ कौचित् सञ्चरन्तौ तत्रागच्छताम्। गङ्गातीरे शीतलः प्रभातः स्वर्गतुल्य एव। मुहुर्मुहुर्विधुनोति स्म माकन्दमञ्जरीः समीरः। किन्तु शीतं शीतमित्येव कथयन्तौ त्वरितगती तौ, अपश्यतां तत्रस्थं दत्तात्रेयम्।
"भोः भोः राक्षस, किं कुरुषे? न जानासि वा यत् शीतेन सा मार्जारी म्रियेत?" इति दत्तात्रेयः सम्बोधितः ताभ्याम्।
दत्तात्रेयः अवदत्— "अहं दत्तात्रेयः। इयं मम मार्जारी। यथेच्छं करोम्यहम्। भवतोः को नामात्राधिकारः?" इत्युक्त्वा सः पुनः मार्जारीं जले निमज्ज्य तामार्द्रीकरोति स्म।
एतयोरेकतरः पर्यटकः साक्रोशमवदत्— "हे मनुष्य, सा मूका। किमेवं धृष्णोषि? प्रागेव सा शीतं न सहते। तदुपरि त्वं शीतजले निमज्जयसि? शीतेन अवस्तब्धा सा बिडाला! मनुष्यरूपेण मृगः त्वम्। सद्य एव कम्बलं क्षिप्त्वा मार्जारीमुष्णीकरु" इति।
पुनरपि स मनुष्यः अब्रवीत्— "मम मार्जारी, यदिच्छामि तत् करोमि। किं ते नष्टम्?"
मुहुर्मुहुः कथितोऽपि मार्जार्याः निमज्जनात् उन्मज्जनाच्च स न व्यरमत्। आर्द्रा मार्जारी सततं म्युङ्कारं कुर्वन्ती एवासीत्। पर्यटकौ "विचित्रोऽसौ जनः, मूर्खवदाचरति" इति विचिन्तयन्तौ ततः प्रस्थानमकुरुताम्। सत्यम्—
"मूर्खान् न द्रष्टव्या द्रष्टव्याश्चेन्न तैस्तु सह तिष्ठेत्।
यदि तिष्ठेन्न तु कथयेद् यदि कथयेन्मूर्खवत् कथयेत्॥"
यदि तिष्ठेन्न तु कथयेद् यदि कथयेन्मूर्खवत् कथयेत्॥"
घण्टानन्तरं तौ पुनः तस्मात् मार्गात् प्रत्यागच्छताम्। तदा सः मनुष्यः तत्र रुदन्नासीत्। "मम प्रिया मार्जारी मृता, अवलम्बस्व मां गङ्गामातः! त्वामेवाहमवलम्बे" इति सः विलापमकरोत्।
तदा द्वयोः अन्यतरः पर्यटकः अकथयत्— "अनुबन्धं विजानन् त्वमेतदकरोः, अतः किमर्थमनुशोचसे? आवाभ्यामुक्तं खलु, शीतकाले शीतजलेन मार्जारीं स्नापयति चेत् सा म्रियेत इति। इदानीं रोदनेन किम्?"
सः मनुष्यः प्रत्यवदत्— "मम मार्जारी। मम रोदनम्। केनोक्तं सा स्नानात् मृता इति?"
पर्यटकः— "किमिथ्या वदसि? ननु आवां त्वया स्नापितां मार्जारीमपश्याव।"
दत्तात्रेयः— "युवां न जानीथः। स्नानात् सा न अम्रियत। नद्यां स्नाता सा आर्द्रा जाता। अतः शोषयितुं तां हस्ताभ्यां न्यपीडयम्। ततस्तस्याः प्राणाः निर्गताः स्युः।"
"बत, बत, प्रियमार्जारि, मां त्यक्त्वा क्व गता सि" इति पुनः अरोदत् सः।
"शोषयन्तो जना नित्थं दत्तात्रेयकुलोद्भवाः।
साम्प्रतं बहवः सन्ति नेेतारो मूर्खतल्लजाः॥"
साम्प्रतं बहवः सन्ति नेेतारो मूर्खतल्लजाः॥"
(डा. शङ्करराजारामेण रचितमिदं पद्यम्।)
अद्यत्वे राजनैतौ एतादृशाः नेतारः दरीदृश्यन्ते। कश्चन नायकमन्यः "अहं युवा नेता" इति स्वयमेव मनुते, तस्य चाटुकारास्तुतं बहुधैव उत्साहयन्ति। जनता तु मार्जारवत् मूकं पश्यति।
इति शम्।
डा. शङ्करराजाराममहोदयेन भाषाशुद्धौ, व्याकरणदोषपरिहरणे च कृतसाहाय्येन उपकृता स्मि। तस्मै कृतज्ञतां धन्यवादांश्च समर्पयामि।
टीका—
चारुदेवशास्त्रिणः वाक्यमुक्तावल्याः—
चारुदेवशास्त्रिणः वाक्यमुक्तावल्याः—
-
अनुबन्धम् - उपसर्गस्य घञि - ६.३.१२२ → उपसर्गस्य दीर्घः
-
अनुशोचसे - अनुपूर्वके शीङ् इति प्रयोगः। पश्चात्तापः अर्थः।
-
अवस्तब्धः - उपसर्गे बाधितार्थे सति मूर्धन्यः (अवष्टब्धः) नाभवत्।
✦ ✦ ✦
Reconstructing Sāṃkhya-Yoga from the Mahabharata
Your help is Solicited
Embedded within the Mahābhārata is the oldest, undefiled Vedic science of Sāṃkhya and Yoga. I seek your support for this project in any way possible. Please consider donating any amount that you deem proper.
Support this project →My UPI ID is: 8296375300@ybl
No account needed · Every bit helps